|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.16. अध्यायः 016
Mahabharata - Udyoga Parva - Chapter Topics
बृहस्पतिना ब्राह्ममन्त्रसंवर्धितेनाग्निना पद्मनालस्येन्द्रं दृष्ट्वा बृहस्पतये तन्निवेदनम् ॥ 1 ॥
बृहस्पतिना तत्र गत्वा इन्द्रे स्तूयमाने कुबेरादीनां तत्रागमनम् ॥ 2 ॥
इन्द्रेण नहुषजये साहाय्यायाग्नेर्भागदानपूर्वकं कुबेरादीनां तत्ताद्दिगाधिपत्येऽभिषेचनम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text
बृहस्पतिरुवाच। 5-16-0x(3397)(32192)
त्वमग्रे सर्वदेवानां मुखं त्वमसि हव्यवाट्।
त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत्॥ 5-16-1(32193)
त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः।
त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्धुताशन ॥ 5-16-2(32194)
कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम्।
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ॥ 5-16-3(32195)
त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः।
यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरैः ॥ 5-16-4(32196)
सृष्ट्वा लोकांस्त्रीमिमान्हव्यवाह
प्राप्ते काले पचसि पुनः समिद्धः ।
त्वं सर्वस्य भुवनस्य प्रसूति-
स्त्वमेवाग्रे भवसि पुनः प्रतिष्ठा ॥ 5-16-5(32197)
त्वामग्ने जलदानाहुर्विद्युतश्च मनीषिणः।
वहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः ॥ 5-16-6(32198)
त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत्।
न तेऽस्त्यविदितं किचित्रिषु लोकेषु पावक ॥ 5-16-7(32199)
स्वयोर्नि भजते सर्वो विशस्वापोऽविशङ्कितः।
अहं त्वां वर्धयिष्यामि ब्राह्मैर्मन्त्रैः सनातनैः ॥ 5-16-8(32200)
एवं स्तुतो हव्यवाट् स भगवान्कविरुत्तमः ।
बृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम्।
दर्शयिष्यामि ते शक्रं सत्यमेतद्ब्रवीमि ते॥ 5-16-9(32201)
शल्य उवाच। 5-16-10x(3398)
प्रविष्यापस्ततो वह्निः ससमुद्राः सपल्वलाः।
आससाद सरस्तच्च गूढो यत्र शतक्रतुः ॥ 5-16-10(32202)
अथ तत्रापि पद्मानि विचिन्वन्भरतर्षभ ।
अपश्यत्स तु देवेन्द्रं बिसमध्यगतं तदा ॥ 5-16-11(32203)
आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः।
अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम् ॥ 5-16-12(32204)
गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः ।
पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम् ॥ 5-16-13(32205)
महाऽसुरो हतः शक्र नमुचिर्दारुणस्त्वया ।
शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ ॥ 5-16-14(32206)
शतक्रतो विवर्धस्व सर्वाञ्शत्रून्निषूदय ।
उत्तिष्ठ शक्र संपश्य देवर्षीश्च समागतान् ॥ 5-16-15(32207)
महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वया विभो।
अपां फेनं समासाद्य विष्णुतेजोतिबृंहितम्।
त्वया वृत्रो हतः पूर्वं देवराज जगत्पते ॥ 5-16-16(32208)
त्वं सर्वभूतेषु शरण्य ईड्य-
स्त्वया समं विद्यते नेह भूतम्।
त्वया धार्यन्ते सर्वभूतानि शक्र
त्वं देवानां महिमानं चकर्थ ॥ 5-16-17(32209)
पाहि सर्वांश्च लोकांश्च महेन्द्र बलमाप्नुहि ।
एवं संस्तूयमानश्च सोऽवर्धत शनैः शनैः ॥ 5-16-18(32210)
स्वं चैव वपुरास्थाय बभूव स बलान्वितः।
अब्रवीच्च गुरं देवो बृहस्पतिमवस्थितम् ॥ 5-16-19(32211)
किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः ।
वृत्रश्च सुमहाकायो यो वै लोकाननाशयत् ॥ 5-16-20(32212)
बृहस्पतिरुवाच। 5-16-21x(3399)
मानुषो नहुषो राजा देवर्षिगणतेजसा।
देवराज्यमनुप्राप्तः सर्वान्नो बाधते भृशम् ॥ 5-16-21(32213)
इन्द्र उवाच। 5-16-22x(3400)
कथं च नहुषो राज्यं देवानां प्राप दुर्लभम्।
तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते ।
` तत्सर्वं कथय त्वं मे यथेन्द्रत्वमुपेयिवान् ॥ 5-16-22(32214)
बृहस्पतिरुवाच। 5-16-23x(3401)
त्वयि प्रनष्टे देवेश विश्वं प्रव्यथितं जगत्।
परस्परभयोद्विग्नं बभूवार्तमराजकम् ॥ 5-16-23(32215)
ततो देवैः सगन्धर्वैः सर्षिसङ्घैः सपावकैः ।
मानुषो नहुषो राजा देवराज्येऽभिषेचितः ॥ 5-16-24(32216)
देवा भीताः शक्रमकामयन्त
त्वया त्यक्तं महदैन्द्रं पदं तत्।
तदा देवाः पितरोऽथर्षयश्च
गन्धर्वमुख्याश्च समेत्य सर्वे ॥ 5-16-25(32217)
गत्वाऽब्रुवन्नहुषं तत्र शक्र
त्वं नो राजा भव भुवनस्य गोप्ता।
तानब्रवीन्नहुषो नास्मि शक्त
आप्यायध्वं तपसा तेजसा माम् ॥ 5-16-26(32218)
एवमुक्तैर्वर्द्धितश्चापि देवै
राजाऽभवन्नहुषो घोरवीर्यः।
त्रैलोक्ये च प्राप्य राज्यं महर्षी-
न्कृत्वा वाहान्याति लोकान्दुरात्मा ॥ 5-16-27(32219)
तेजोहरं दृष्टिविषं सुघोरं
मा त्वं पश्येर्नहुषं वै कदाचित्।
देवाश्च सर्वे नहुषं भृशार्ता
न पश्यन्ते गूढरूपाश्चरन्तः ॥ 5-16-28(32220)
शल्य उवाच। 5-16-29x(3402)
एवं वदत्यङ्गिरसां वरिष्ठे
बृहस्पतौ लोकपालः कुबेरः।
वैवस्वतश्चैव यमः पुराणो
दवेश्च सोमो वरुणश्चाजगाम॥ 5-16-29(32221)
ते वै समागम्य महेन्द्रमूचु-
र्दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः।
दिष्ट्या च त्वां कुशलिनमक्षतं च
पश्यामो वै निहतारिं च शक्र ॥ 5-16-30(32222)
स तान्यथावच्च हि लोकपाला-
न्समेत्स वै प्रीतमना महेन्द्रः।
उवाच चैनान्प्रतिभाष्य शक्रः
संचोदयिष्यन्नहुषस्यान्तरेण ॥ 5-16-31(32223)
राजा देवानां नहुषो घोररूप-
स्तत्र साह्यं दीयतां मे भवद्भिः ।
ते चाब्रुवन्नहुषो घोररूपो
दृष्टीविषस्तस्य बिभीम ईश ॥ 5-16-32(32224)
त्वं चेद्राजानं नहुषं पराजये-
स्ततो वयं भागमर्हाम शक्र।
इन्द्रोऽब्रवीद्भवतु भवानपां पति-
र्यमः कुबेरश्च मयाभिषेकम् ॥ 5-16-33(32225)
संप्राप्नुवन्त्वद्य सहैव दैवतै
रिपुं जयाम तं नहुषं घोरदृष्टिम्।
ततः शक्रं ज्वलनोऽप्याह भाग
प्रयच्छ मह्यं तव साह्यं करिष्ये।
तमाह शक्रो भविताऽग्ने तवापि
चेन्द्राग्न्योर्वै भाग एको महाक्रतौ ॥ 5-16-34(32226)
शल्य उवाच। 5-16-35x(3403)
एवं संचिन्त्य भगवान्महेन्द्रः पाकशासनः।
कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा ॥ 5-16-35(32227)
वैवस्वतं पितॄणां च वरुणं चाप्यपां तथा।
आधिपत्यं ददौ शक्रः सत्कृत्य वरदस्तथा ॥ ॥ 5-16-36(32228)
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि षोडशोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-16-6 हेतयः ज्वालाः ॥ 5-16-31 नहुषस्यान्तरेण अन्तरं भेदः। बुद्धिभेदार्थमित्यर्थः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|